Monday, November 23, 2009

SankataNashana Ganesha Stotram


॥सङ्कटनाशन गणेश स्तोत्रं॥

॥श्रीगणेशाय नमः॥


। नारद उवाच ।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं।
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये॥ १॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥ २॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम्॥ ३॥

नवमं भालचन्द्रं च दशमं तु विनायकं।
एकादशं गणपतिं द्वादशं तु गजाननम्॥ ४॥

द्वादशैतानि नामानि त्रिसंध्यं यत्पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरंप्रभुः॥ ५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनं।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिं॥ ६॥

जपेद्गणपतिस्तोत्रं षड्‌भिर्मासैः फलं लभेत्‌।
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥ ७॥

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्‌।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥ ८॥

॥ इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं सम्पूर्णम्॥


MahaGanesha Pancharatnastotram



॥महागणेश पञ्चरत्नस्तोत्रम्॥

॥श्रीगणेशाय नमः॥

मुदाकरात्तमोदकं सदाविमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरञ्जकम्।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्॥१॥


नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम्॥२॥


समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्॥३॥


अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम्॥४॥


नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम्॥५॥

महागणेश्पञ्चरत्नमादरेण योऽन्वहं प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम्।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥

इति श्रीशङ्करभगवतः कृतौ श्री महागणेश पञ्चरत्नस्तोत्रं सम्पूर्णम्॥