Monday, September 6, 2010

Chandrashekharashtakam


॥अथ श्रीचन्द्रशेखराष्टकम्॥



चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम्।

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम्॥



रत्नसानुशरासनं रजताद्रिशृंगनिकेतनं।

शिञ्जिनीकृतपन्नगेश्वरं अच्युतानलसायकं॥

क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं।

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥१॥



पञ्चपादप पुष्पगन्ध पदाम्बुजद्वयशोभितं।

भाललोचनजातपावक दग्धमन्मथविग्रहं॥

भस्मदिग्धकलेवरं भवनाशनंभवमव्ययं।

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥२॥



मत्तवारणमुख्यचर्म कृतोत्तरीयमनोहरं।

पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहं॥

देवसिन्धुतरङ्गसीकर सिक्तशुभ्रजटाधरं।

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥३॥



यक्षराजसखंभगाक्षहरम् भुजङ्गविभूषणं।

शैलराजसुतापरिष्कृत चारुवामकलेवरं॥

श्वेडनीलगलंपरश्वध धारिणंमृगधारिणं।

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥४॥



कुण्डलीकृतकुण्डलेश्वर कुण्डलंवृषवाहनं।

नारदादिमुनिश्वरस्तुत वैभवंभुवनेश्वरं॥

अन्धकान्तकमाश्रितामरपादपंशमनान्तकं।

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥५॥



भेषजंभवरोगिणां अखिलापदामपहारिणं।

दक्षयज्ञविनाशनं त्रिभुवनात्मकंत्रिविलोचनं॥

भुक्तिमुक्तफलप्रदं सकलाघसङ्घनिवर्हणं।

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥६॥



भक्तवत्सलमर्चितं निधिमक्षयंहरिदम्वरं।

सर्वभूतपतिंपरात्परं अप्रमेयमनुत्तमं॥

सोमवारिनभूतहाशन सोमवानिलचाकृतिं।

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥७॥



विश्वसृष्टिविधायिनं पुनरेवपालनतत्परं।

संहरंतमपिप्रपञ्चम शेषलोकनिवासिनम्॥

क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं।

चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥ ८॥



मृत्युभीत मृकण्डुसूनुकृतस्तवं शिव सन्निधौ।

यत्रकुत्रजयत्पठेन्नहितस्यमृत्युभयंभवेत्॥

पूर्णमायुररोगितामखिलार्थकंपरमादरं।

चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः॥



॥इति श्रीचन्द्रशेखराष्टकम्॥

Monday, February 8, 2010

Shiva Panchakshara Stotram

॥ॐ ह्रीं गं ह्रीं महागणाधिपतये नमः॥
॥ॐ श्री उमामहेश्वराय नमो नमः॥

॥श्री शिवपञ्चाक्षरस्तोत्रं॥

नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय।
नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय॥१॥

मन्दाकिनिसलिल चन्दनचऽर्चिताय नन्दीश्वर प्रमथनाथ महेश्वराय।
मन्दारपुष्प बहुपुष्प सुपूजिताय तस्मै मकाराय नमः शिवाय॥२॥

शिवाय गौरी वदनाब्जवृन्द सूर्याय दक्षाध्वरनाशकाय।
श्री नीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय॥३॥

वसिष्ठ कुम्भोद्भव गौतमार्य मुनीन्द्र देवार्चित शेखराय।
चन्द्रार्कवैश्वानर लोचनाय तस्मै वकाराय नमः शिवाय॥४॥

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय।
दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय॥५॥

॥नमः शिवाय॥
॥ॐ श्री उमामहेश्वराय नमो नमः॥

Thursday, January 28, 2010

Sri Rudram: Namakam and Chamakam


गणानाम् त्वा गणपतिं हवामहे कविम् कवीनाम् उपमश्रवस्तमं।
ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनं॥

॥ॐ श्री महागणाधिपतये नमः॥

॥ श्री रुद्रप्रश्नः ॥

॥ ॐ नमो भगवते रुद्राय ॥


नमस्ते रुद्र मन्यवऽ उतोतऽ इषवे नमः ।
नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः ॥ १-१ ॥

यात इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नो रुद्र मृडय ॥ १-२ ॥

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ १-३ ॥

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥ १-४ ॥

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥ १-५ ॥

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।
अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥ १-६ ॥

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।
ये चेमारुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषाहेड ईमहे ॥ १-७ ॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः
उतैनं विश्वाभूतानि स दृष्टो मृडयाति नः ॥ १-८ ॥

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥ १-९ ॥

प्रमुञ्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप ॥ १-१० ॥

अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ १-११ ॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवा उत।
अनेशन्नस्येषव आभुरस्य निषंगथिः ॥ १-१२ ॥

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिब्भुज ॥ १-१३ ॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे ।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ १-१४ ॥

परि ते धन्वनो हेतिरस्मान्व्रुणक्तु विश्वतः ।
अथो य इषुधिस्तवारेऽ अस्मन्निधेहि तम् ॥ १-१५ ॥

नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय
त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय
नीलकण्ठाय मृत्युंजयाय सर्वेश्वराय
सदाशिवाय श्रीमन्महादेवाय नमः ॥ २-०॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो
नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो
नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो
नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो
नमो हरिकेश्योपवीतिने पुष्टाणां पतये नमो
नमो भवस्य हेत्यै जगतां पतये नमो
नमो रुद्रायातताविने क्षेत्राणां पतये नमो
नमस्सूतायाहन्त्याय वनानां पतये नमो ॥२-१॥

नमो रोहिताय स्थपतये वृक्षाणं पतये नमो
नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो
नमो भुवंतये वारिवस्कृधायौषधीनां पतये नमो
नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो
नमः कृत्स्नवीताय धावते सत्वनां पतये नमः ॥ २-२ ॥

नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो
नमः ककुभाय निषङ्गिणेस्तेनानां पतये नमो
नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो
नमो वञ्चते परिवञ्चतेस्तायूनां पतये नमो
नमो निचेरवे परिचरायारण्याणां पतये नमो
नमः सृकाविभ्यो जिघासद्भ्यो मुष्णतां पतये नमो
नमोऽसिमद्भूयो नक्तंचरद्भ्यः प्रकृन्तानां पतये नमो
नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो ॥३-१॥

नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो
नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो
नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो
नमोऽस्यद्भ्यो विध्यद्भ्यश्च वो नमो
नम आसीनेभ्यः शयनेभ्यश्च वो नमो
नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो
नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो
नमः सभाभ्यः सभापतिभ्यश्च वो नमो
नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ ३-२ ॥

नम आव्यधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो
नम उगणाभ्यस्तृहंतीभ्यश्च वो नमो
नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो
नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो
नमो गणेभ्यो गणपतिभ्यश्च वो नमो
नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो
नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो
नमो रथिभ्योऽरथेभ्यश्च वो नमो ॥ ४-१ ॥

नमो रथेभ्यो रथपतिभ्यश्च वो नमो
नमः सेनाभ्यः सेननिभ्यश्च वो नमो
नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो
नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो
नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो
नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो
नमो मृगयुभ्यः श्वनिभ्यश्च वो नमो
नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ ४-२॥

नमो भवाय च रुद्राय च
नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च
नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च
नमो वृद्धाय च संवृद्ध्वने च ॥ ५-१ ॥

नमो अग्रियाय च प्रथमाय च
नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च
नम ऊर्म्याय च चावस्वन्याय च
नमः स्रोतस्याय च द्वीप्याय च ॥ ५-२ ॥

नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च
नम उर्वर्याय खल्याय च
नमः श्लोक्याय चाऽवसान्याय च
नमो वन्याय च कक्ष्याय च
नमः श्रवाय च प्रतिश्रवाय च ॥ ६-१ ॥

नम आशुषेणाय चाशुरथाय च
नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च
नमो बिल्मिने च कवचिने च
नमः श्रुताय च श्रुतसेनाय च ॥ ६-२ ॥

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च
नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च
नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च ॥ ७-१ ॥

नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च
नमो मेध्याय च विद्युत्याय च नम ईध्रियाय चातप्याय च
नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च॥ ७-२ ॥

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च
नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो
नमस्ताराय नमः शम्भवे च मयोभवे च
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च ॥ ८-१ ॥

नमस्तीर्थ्याय च कूल्याय च
नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च
नमः सिकत्याय च प्रवाह्याय च ॥ ८-२ ॥

नम इरिण्याय च प्रपथ्याय च
नमः किशिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च
नमो गोष्ठ्याय च गृह्याय च
नमस्तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो हृदय्याय च निवेष्प्याय च
नमः पासव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च ॥ ९-१ ॥

नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च
नमोऽपगुरमाणाय चाभिघ्नते च
नम आख्खिदते च प्रख्खिदते च
नमो वः किरिकेभ्यो देवाना हृदयेभ्यो
नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो
नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥ ९-२ ॥

द्रापे अन्धसस्पते दरिद्रन्नीललोहित ।
एषां पुरुषाणामेषां पशूनां मा भेर्माऽरो मो एषां किंचनाममत् ॥ १०-१ ॥

या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी ।
शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ १०-२ ॥

इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् ।
यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ १०-३ ॥

मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ॥ १०-४ ॥

मा नो महान्तमुत मा नो अर्भकं
मा न उक्षन्तमुत मा न उक्षितम् ।
मा नोऽवधीः पितरं मोत मातरं प्रिया मा
नस्तनुवो रुद्र रीरिषः ॥ १०-५ ॥

मानस्तोके तनये मा न आयुषि मा नो गोषु
मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितोऽवधीर्हविष्मन्तो
नमसा विधेम ते ॥ १०-६ ॥

आरात्ते गोघ्न उत्त पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु ।
रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म यच्छ द्विबर्हाः ॥ १०-७ ॥

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीममुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ॥ १०-८ ॥

परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृडय ॥ १०-९ ॥

मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष आयुधन्निधाय कृत्तिंवसान आचर पिनाकं विभ्रदागहि ॥ १०-१० ॥

विकिरिद विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्रहेतयोऽन्यमस्मन्निवपन्तु ताः ॥ १०-११ ॥

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखा कृधि ॥ १०-१२ ॥

सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् ।
तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥ ११-१ ॥
अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ॥ ११-२ ॥
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचरा ॥ ११-३ ॥
नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः ॥ ११-४ ॥
ये वृक्षेषु सस्पिंजरा नीलग्रीवा विलोहिताः ॥ ११-५ ॥
ये भूतानामधिपतये विशिखासः कपर्दिनः ॥ ११-६ ॥
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥ ११-७ ॥
ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥ ११-८ ॥
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ॥ ११-९ ॥
य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे
तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥ ११-१० ॥

नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे
ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि
तं वो जम्भे दधामि ॥ ११-११ ॥

त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ १ ॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवनाऽऽविवेश
तस्मै रुद्राय नमो अस्तु ॥ २ ॥

तमुष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
यक्ष्वामहे सौमनसाय रुद्रं नभोभिर्देवमसुरं दुवस्य ॥ ३ ॥

अयं मे हस्तो भगवानयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽय शिवाभिमर्शनः ॥ ४ ॥

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे ।
तान् यज्ञस्य मायया सर्वानव यजामहे ।
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ ५ ॥

ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ।
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः ।
तेनान्नेनाप्यायस्व ॥ ६ ॥

नमो रुद्राय विष्णवे मृत्युर्मे पाहि

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे पंचमः प्रपाठकः ॥


॥ श्री॒ चमकप्रश्नः ॥


अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः ।

द्युम्नैर्वाजेभिरागतम् ॥


वाजश्च मे प्रसवश्च मे

प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे

स्वर्श्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे

ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे

व्यानश्च मेऽसुश्च मे चित्तं च म आधितं च मे

वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे

बलं च म ओजश्च मे सहश्च म आयुश्च मे

जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे

ऽङ्गानि च मेऽस्थानि च मे परूषि च मे

शरीराणि च मे ॥ १ ॥


ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे

भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे

वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे

वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे

जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे

मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे

सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे

भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे

कॢप्तं च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे ॥ २ ॥


शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे

कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे

वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे

यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे

विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे

सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋत्तं च मे

ऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे

दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे

शयनं च मे सूषा च मे सुदिनं च मे ॥ ३ ॥


ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे

घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे

कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे

रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे

विभु च मे प्रभु च मे बहु च मे भूयश्च मे

पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे

ऽन्नं च मेऽक्षुच्च मे व्रीहियश्च मे यवाश्च मे माषाश्च मे

तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे

मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे

श्यामाकाश्च मे नीवाराश्च मे ॥ ४ ॥


अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे

सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे

ऽयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे

लोहं च मेऽग्निश्च म आपश्च मे वीरुधश्च म

ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे

ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां

वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे

वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे

ऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे ॥ ५ ॥


अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे

सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे

पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे

मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे

त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे

विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे

मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे

पृथिवी च म इन्द्रश्च मेऽन्तरीक्षं च म इन्द्रश्च मे

द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे

मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे ॥ ६ ॥


अशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म

उपाशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायश्च मे

मैत्रावरुणश्च म आश्विनश्च मे प्रतिपस्थानश्च मे

शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे

ध्रुवश्च मे वैश्वानरश्च म ऋतुग्राहाश्च मे

ऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवाश्च मे

मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे

सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे

पात्नीवतश्च मे हारियोजनश्च मे ॥ ७ ॥


इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे

स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म

उपरवाश्च मेऽधिषवणे च मे द्रोणकलशश्च मे

वायव्यानि च मे पूतभृच्च मे आधवनीयश्च म

आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे

पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे

स्वगाकारश्च मे ॥ ८ ॥


अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे

प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे

दितिश्च मे द्यौश्च मे शक्कवरीरङ्गुलयो दिशश्च मे

यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे

यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे

ऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥ ९ ॥


गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवी च मे

दीत्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे

पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे

तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म

उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे

ऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां

प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां

व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता

श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां

वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां

यज्ञो यज्ञेन कल्पताम् ॥ १० ॥


एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे

नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे

सप्तदश च मे नवदश च म एक विंशतिश्च मे

त्रयोविंशतिश्च मे पञ्चविंशतिश्च मे

सप्तविंशतिश्च मे नवविंशतिश्च म

एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे

चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे

विंशतिश्च मे चतुर्विंशतिश्च मेऽष्टाविंशतिश्च मे

द्वात्रिंशच्च मे षट्-त्रिंशच्च मे चत्वारिंशच्च मे

चतुश्चत्वारिंशच्च मेऽष्टाचत्वारिंशच्च मे

वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च

व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च

भुवनश्चाधिपतिश्च ॥ ११ ॥


इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि

शसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा

मा हिसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि

मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास

शुश्रूषेण्यं मनुष्येभ्यस्तं मा देवा अवन्तु

शोभायै पितरोऽनुमदन्तु ॥


॥ ॐ शान्तिः शान्तिः शान्तिः ॥


 ॥ इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे सप्तमः प्रपाठकः ॥





॥ श्री॒ चमकप्रश्नः ॥



अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः ।

द्युम्नैर्वाजेभिरागतम् ॥



वाजश्च मे प्रसवश्च मे

प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे

स्वर्श्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे

ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे

व्यानश्च मेऽसुश्च मे चित्तं च म आधितं च मे

वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे

बलं च म ओजश्च मे सहश्च म आयुश्च मे

जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे

ऽङ्गानि च मेऽस्थानि च मे परूषि च मे

शरीराणि च मे ॥ १ ॥



ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे

भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे

वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे

वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे

जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे

मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे

सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे

भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे

कॢप्तं च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे ॥ २ ॥



शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे

कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे

वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे

यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे

विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे

सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋत्तं च मे

ऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे

दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे

शयनं च मे सूषा च मे सुदिनं च मे ॥ ३ ॥



ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे

घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे

कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे

रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे

विभु च मे प्रभु च मे बहु च मे भूयश्च मे

पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे

ऽन्नं च मेऽक्षुच्च मे व्रीहियश्च मे यवाश्च मे माषाश्च मे

तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे

मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे

श्यामाकाश्च मे नीवाराश्च मे ॥ ४ ॥



अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे

सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे

ऽयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे

लोहं च मेऽग्निश्च म आपश्च मे वीरुधश्च म

ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे

ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां

वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे

वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे

ऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे ॥ ५ ॥



अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे

सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे

पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे

मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे

त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे

विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे

मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे

पृथिवी च म इन्द्रश्च मेऽन्तरीक्षं च म इन्द्रश्च मे

द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे

मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे ॥ ६ ॥



अशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म

उपाशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायश्च मे

मैत्रावरुणश्च म आश्विनश्च मे प्रतिपस्थानश्च मे

शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे

ध्रुवश्च मे वैश्वानरश्च म ऋतुग्राहाश्च मे

ऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवाश्च मे

मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे

सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे

पात्नीवतश्च मे हारियोजनश्च मे ॥ ७ ॥



इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे

स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म

उपरवाश्च मेऽधिषवणे च मे द्रोणकलशश्च मे

वायव्यानि च मे पूतभृच्च मे आधवनीयश्च म

आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे

पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे

स्वगाकारश्च मे ॥ ८ ॥



अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे

प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽदितिश्च मे

दितिश्च मे द्यौश्च मे शक्कवरीरङ्गुलयो दिशश्च मे

यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे

यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे

ऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥ ९ ॥



गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवी च मे

दीत्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे

पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे

तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म

उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे

ऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां

प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां

व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता

श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां

वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां

यज्ञो यज्ञेन कल्पताम् ॥ १० ॥



एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे

नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे

सप्तदश च मे नवदश च म एक विंशतिश्च मे

त्रयोविंशतिश्च मे पञ्चविंशतिश्च मे

सप्तविंशतिश्च मे नवविंशतिश्च म

एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे

चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे

विंशतिश्च मे चतुर्विंशतिश्च मेऽष्टाविंशतिश्च मे

द्वात्रिंशच्च मे षट्-त्रिंशच्च मे चत्वारिंशच्च मे

चतुश्चत्वारिंशच्च मेऽष्टाचत्वारिंशच्च मे

वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च

व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च

भुवनश्चाधिपतिश्च ॥ ११ ॥



इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि

शसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा

मा हिसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि

मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास

शुश्रूषेण्यं मनुष्येभ्यस्तं मा देवा अवन्तु

शोभायै पितरोऽनुमदन्तु ॥



॥ ॐ शान्तिः शान्तिः शान्तिः ॥



॥ इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे सप्तमः प्रपाठकः ॥


Tuesday, December 8, 2009

Shri Kalabhairava Ashtakam


॥ॐ श्री महागणाधिपतये नमः॥
॥ क्रीं कालिकायै नमो नमः॥
॥ क्रीं कालभैरवाय नमः॥




देवराजसेव्यमानपावनान्घ्रिपङ्कजं

व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरं

नारदादि योगिवृन्द वन्दितं दिगम्बरं

काशिकापुराधिनाथकालभैरवं भजे॥१॥



भानुकोटिभास्वरं भवाब्धितारकंपरम्

नीलकन्ठमीप्सितार्थदायकं त्रिलोचनं

कालकालमंबुजाक्षमक्षशूलमक्षरं

काशिकापुराधिनाथकालभैरवं भजे॥२॥



शूलटङ्कपाशदन्डपाणिमादिकारणं

श्यामकायमादिदेवमक्षरं निरामयं

भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं

काशिकापुराधिनाथकालभैरवं भजे॥३॥



भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं

भक्तवत्सलं स्थितं समस्तलोक विग्रहं

विनिक्वणन्मनोग़्यहेमकिङ्किणीलसत्कटिं

काशिकापुराधिनाथकालभैरवं भजे॥४॥



धर्मसेतुपालकं त्वधर्ममार्गनाशनं

कर्मपाशमोचकं सुशर्मधायकं विभुं

स्वर्णवर्णशेषपाशशोभिताङ्गमण्दलं

काशिकापुराधिनाथकालभैरवं भजे॥५॥



रत्नपादुकाप्रभाभिरामपादयुग्मकं

नित्यमद्वितीयमिष्तदैवतं निरंजनं।

मृत्युदर्पनाशनं करालदंष्त्रमोक्षणं

काशिकापुराधिनाथकालभैरवं भजे॥६॥



अट्टहासभिन्नपद्मजाण्डकोशसंततिं

दृष्टिपातनष्टपापजालमुग्रशासनं।

अष्टसिद्धिदायकं कपालमालिकाधरं

काशिकापुराधिनाथकालभैरवं भजे॥७॥



भूतसंघनायकं विशालकीर्तिदायकं

काशिवासलोकपुण्यपापशोधकं विभुं

नीतिमार्ग कोविदं पुरातनं जगत्पतिं

काशिकापुराधिनाथकालभैरवं भजे॥८॥


कालभैरवाष्टकं पठन्ति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनं ।
शोकमोहदैन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवं॥

॥इति श्रीमद् शङ्कराचर्य विरचितं कालभैरवाष्टकं सम्पूर्णम्॥

Friday, December 4, 2009

CharanaShringaRahita Nataraja Stotram



॥श्री गणेशाय नमः॥

॥ श्री चरणशृङ्गरहित नटराज स्तोत्रं॥

सदञ्चित मुदञ्चित निकुञ्चित पदं झलझलञ्चलित मञ्जु कटकं
पतञ्जलि दृगञ्जन मनञ्जन मचञ्चलपदं जनन भञ्जन करं।
कदम्बरुचिमम्बरवसं परमम्बुद कदम्ब कविडम्बक कगलं
चिदम्बुधि मणिं बुध हृदम्बुज रविं परचिदम्बर नटं हृदि भज ॥१॥

हरं त्रिपुर भञ्जनं अनन्तकृतकङ्कणं अखण्डदय मन्तरहितं
विरिञ्चिसुरसंहतिपुरन्धर विचिन्तितपदं तरुणचन्द्रमकुटं।
परं पद विखण्डितयमं भसित मण्डिततनुं मदनवञ्चन परं
चिरन्तनममुं प्रणवसञ्चितनिधिं परचिदम्बर नटं हृदि भज ॥२॥

अवन्तमखिलं जगदभङ्ग गुणतुङ्गममतं धृतविधुं सुरसरित्‌-
तरङ्ग निकुरम्ब धृति लम्पट जटं शमनदम्भसुहरं भवहरं।
शिवं दशदिगन्तर विजृम्भितकरं करलसन्मृगशिशुं पशुपतिं
हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बर नटं हृदि भज ॥३॥

अनन्तनवरत्नविलसत्कटककिङ्किणिझलं झलझलं झलरवं
मुकुन्दविधि हस्तगतमद्दल लयध्वनिधिमिद्धिमित नर्तन पदं।
शकुन्तरथ बर्हिरथ नन्दिमुख शृङ्गिरिटिभृङ्गिगणसङ्घनिकटं
सनन्दसनक प्रमुख वन्दित पदं परचिदम्बर नटं हृदि भज ॥४॥

अनन्तमहसं त्रिदशवन्द्य चरणं मुनि हृदन्तर वसन्तममलं
कबन्ध वियदिन्द्ववनि गन्धवह वह्निमख बन्धुरविमञ्जु वपुषं।
अनन्तविभवं त्रिजगन्तर मणिं त्रिनयनं त्रिपुर खण्डन परं
सनन्द मुनि वन्दित पदं सकरुणं परचिदम्बर नटं हृदि भज ॥५॥

अचिन्त्यमलिवृन्द रुचि बन्धुरगलं कुरित कुन्द निकुरम्ब धवलं
मुकुन्द सुर वृन्द बल हन्तृ कृत वन्दन लसन्तमहिकुण्डल धरं।
अकम्पमनुकम्पित रतिं सुजन मङ्गलनिधिं गजहरं पशुपतिं
धनञ्जय नुतं प्रणत रञ्जनपरं परचिदम्बर नटं हृदि भज ॥६॥

परं सुरवरं पुरहरं पशुपतिं जनित दन्तिमुख षण्मुखममुं
मृडं कनक पिङ्गल जटं सनकपङ्कज रविं सुमनसं हिमरुचिं।
असङ्घमनसं जलधि जन्मकरलं कवलयन्त मतुलं गुणनिधिं
सनन्द वरदं शमितमिन्दु वदनं परचिदम्बर नटं हृदि भज ॥७॥

अजं क्षितिरथं भुजगपुङ्गवगुणं कनक शृङ्गि धनुषं करलसत्‌
कुरङ्ग पृथु टङ्क परशुं रुचिर कुङ्कुम रुचिं डमरुकं च दधतमं।
मुकुन्द विशिखं नमदवन्ध्य फलदं निगम वृन्द तुरगं निरुपमं
सचण्डिकममुं झटिति संहृतपुरं परचिदम्बर नटं हृदि भज ॥८॥

अनङ्गपरिपन्थिनमजं क्शिति धुरन्धरमलं करुणयन्तमखिलं
ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदं।
उदञ्चदरविन्दकुल बन्धुशत बिम्बरुचि संहति सुगन्धि वपुषं
पतञ्जलिनुतं प्रणवपञ्जर शुकं परचिदम्बर नटं हृदि भज ॥९॥

इति स्तवममुं भुजगपुङ्गव कृतं प्रतिदिनं पठति यः कृतमुखः
सदः प्रभुपद द्वितयदर्शनपदं सुललितं चरणशृङ्ग रहितं।
सरःप्रभव सम्भव हरित्पति हरिप्रमुख दिव्यनुत शङ्करपदं
स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदं ॥१०॥

॥इति श्री पतञ्जलि महर्षि कृत श्री चरणशृङ्गरहित नटराज स्तोत्रं सम्पूर्णम्॥

Monday, November 23, 2009

SankataNashana Ganesha Stotram


॥सङ्कटनाशन गणेश स्तोत्रं॥

॥श्रीगणेशाय नमः॥


। नारद उवाच ।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं।
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये॥ १॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥ २॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम्॥ ३॥

नवमं भालचन्द्रं च दशमं तु विनायकं।
एकादशं गणपतिं द्वादशं तु गजाननम्॥ ४॥

द्वादशैतानि नामानि त्रिसंध्यं यत्पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरंप्रभुः॥ ५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनं।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिं॥ ६॥

जपेद्गणपतिस्तोत्रं षड्‌भिर्मासैः फलं लभेत्‌।
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥ ७॥

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्‌।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥ ८॥

॥ इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं सम्पूर्णम्॥


MahaGanesha Pancharatnastotram



॥महागणेश पञ्चरत्नस्तोत्रम्॥

॥श्रीगणेशाय नमः॥

मुदाकरात्तमोदकं सदाविमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरञ्जकम्।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्॥१॥


नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम्॥२॥


समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्॥३॥


अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम्॥४॥


नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम्॥५॥

महागणेश्पञ्चरत्नमादरेण योऽन्वहं प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम्।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥

इति श्रीशङ्करभगवतः कृतौ श्री महागणेश पञ्चरत्नस्तोत्रं सम्पूर्णम्॥